📚 अष्टाध्यायी (सूत्रपाठः)
Page 1
Download 📥
________________ ॥ ओ३म् ॥ ओ३म् भूर्भुवः स्वः। तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात्॥ अष्टाध्यायीसूत्रपाठः अथ शब्दानुशासनम्। अथ प्रत्याहारसूत्राणि I अइउण् । ऋलृक् । एओङ । ऐऔच् । हयवरट् । लण् । ञमङणनम् । झभञ् । घढधष् । जबगडदश् । खफछठथचटतव्। कपय् । शषसर् । हल् । इति प्रत्याहारसूत्राणि ॥ प्रथमोऽध्यायः प्रथमः पादः १ वृद्धिरादैच्। २ अदेङ् गुणः । ३ इको गुणवृद्धी । ४ न धातुलोप आर्धधातुके । ५ क्ङिति च । ६ दीधीवेवीटाम् । ७ हलोऽनन्तराः संयोगः । ९ तुल्यास्यप्रयत्नं सवर्णम् । १० नाज्झलौ। ११ ईदूदेद् द्विवचनं प्रगृह्यम्। १२ अदसो मात् । १३ शे। १४ निपात एकाजनाङ् । १५ ओत् । १६ सम्बुद्धौ शाकल्यस्येतावनार्षे । ८ मुखनासिकावचनोऽनुनासिकः। १७ उञ ॐ।